पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्तमः । १९५ आश्वलायनः– “फन्यपि ििणग्रहणादि गृह्यम.िपरिचरेत् । स्वयं वा पुत्र कुमारी अन्तेवासी वा नित्यानुगृहीतस्यात् * । इति अत्रिः– 'स्वयं पुत्रोऽध्वरी ऋक् िशिष्यश्वशुरमातुलाः । पली श्रोत्रियाज्याश्च दृष्टास्ते बलिकर्मणि । ॥ इति गृह्यः शाकं वा यदि वा पत्रं मूलं वाऽप्यथ वा फलम् । संकल्पयेद्यदाहारः तेनैव जुहुयाद्धविः । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ? ॥ इति बोथायनः – ‘न चेदुत्पद्यते चान्नमद्भिरेनान् समाचरेत् ' । इति स्मृत्यन्तरे– ‘पकाभावे प्रवासे वा तण्डुलानोषधीस्तु वा । पयो दधि घृतं वापि कन्दमूलफलानि वा । योजयेद्देवयज्ञादौ बलिं वाऽपत्सु वा जपेत्' । इति कात्यायनः– ‘पयोदधिघृतैः कुर्याद्वैश्वदेवं सुवेण तु । हस्तेनान्नादिभिः कुर्यादद्भिरञ्जलेिना जले ? ॥ इतेि भूष्णुकामा-वर्धिष्णुकामा । तूष्णीम् । भारद्वाजः– ‘स्त्रियाश्चाप्यनुपेतस्य बलिमन्त्रो न विद्यते । अन्यत्र - अपि वा। खीजुहुयान्मन्त्रवर्जितम्' । इति रात्रावमन्त्रकमित्युक्तत्वात् फ्ल्याश्चामन्त्रकमेव बलिहरणम् । अविभक्तषु संसृष्टष्वेकेनापि कृतन्तु वा । पयोमूलफलैर्वापि पञ्चयज्ञान् समाचरेत् ॥ इति अत्र वैश्वदेवकालस्तु सायंप्रातश्चेत्युक्तम् । स्मृतावपि - ‘सायं प्रातश्च कुचत वैश्वदेवं यथाविधि । महतः पञ्चयज्ञांस्तु वैिवेत्याह गौतमः' । इति अत्रानमितो नित्यौपासनवैश्वदेवप्रकारः उच्यते ।