पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्ड:] न ब्रह्मचर्यादिविधिः गन्धाध्र्यादिभिरर्चयेत् । सर्वान् पितृगणान् सम्यक् सहैवोश्यि भोजयेत्। दत्वा तु दक्षिणा भक्तया नमस्कारैर्विसर्जयेत्'() ॥ इति एवं वैश्वदेवकाले प्राप्तमतिथिं शक्तया तर्पयेत् । वैश्वानरो शेष भवति ॥ २१ ॥ वैश्वानर इति। वैश्वानरमहिमा पुरोहितमुद्दिश्य ऋग्त्रक्षाणे श्रूयते। 'अमिर्वा एष वैश्वानरः पञ्चमेनियंत्पुरोहितः। तस्य वाच्येका क्च्येका मेनिर्भवति। पादयोरेका हृदय एका उपस्थ एका ताभिज्र्वलन्तीभिर्दीव्यमानाभिरुपोदेति । राजान स यथाऽऽह क भगवोऽवात्सी: तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवति अथ य अस्मा उदकमादयन्ति पाद्य तेनास्य तां शमयति । यस्य पादयेोमनिर्भवति । अथ यदेनमलंकुर्वन्ति तेनास्य तां शमयति यास्सत्वं मेनिर्भवति अथ यदेनं तर्पयति तेनास्य तां शमयन्ति यास्य हृदये मेनिर्भवति अथ यदस्या रुद्धो वेश्मसु क्सति तेनास्यतां शमयति यस्य हृदये मेनिर्भवति अथ यदस्य नारुद्धो वेश्मसु वसति तेनास्य तां शमयति । यास्योपस्थे मेनिर्भवति त एनं शान्तनुरभिहुतोऽभिप्रेतस्वर्ग लोकमभिभवन्ति । क्षत्रं नलाच राष्ट्र विश(ति)श्च । स एवैनमशान्तनुरनभिहुतोऽनभिप्रेतस्वर्गान् लोकानुदत् क्षत्राच बलाच राष्ट्रच विशब्ध' इति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तृतीयप्रश्ने सप्तमः खण्डः । 5 --