पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमः खण्डः अथ ित्ररात्रमृतौ मलद्वासाः सानाञ्जनादीनि वर्जयेत् ॥ १ ॥ अथ पाणिग्रहणशेषहोमानन्तरं । त्रिरात्रं ऋतौ कालजऋतैौ । अर्तवं तुर्विधं रागजं रोगजं द्रव्यजं कालजचेति । अत्र - बृहस्पतिः - 'रागजं रोगजचैव द्रव्यजं कालजं तथा । यद्रागरोगद्रव्यार्थे तद्रक्तं प्राह भार्गव ।। अर्वाक् प्रसूतेरुत्पन्ने मेदो वन्ध्यांगनासु यत् । तद्रागजमिति प्रोक्तं वक्षोदेशसमुद्भवम् ।। पित्तादिदोषवैषम्यात् असकृत्संप्रवर्तते । रोगजं तत्समुद्दिष्टमथ द्रव्यजमुच्यते ॥ द्रव्यजं धातुवैषम्यहेतुं द्रव्योपरागजम् । आरभ्य चार्तवादिनात् एकविंशतिवासरे । मासि चोध्वं रजो यत्स्यात् तत्कालजमुदाहृतम् । रजस्वला तु या नारा पुनरेव रजस्वला ।। " एकविंशद्दिनादूर्व त्रिरात्रमशुचिर्भवेत्' । इति गृहपरिशिष्टे – ‘खानाहाद्वादशाहात्माक् शोचाद्रजसि शुद्धयति । स्रानादष्टदशाच्छुद्धिरेकाहाशिनेः परम् । तत्रापि बहुशः स्रावे तदृर्वश्च त्रिरात्रतः । आरूढयौवनायास्तु तदर्वाक् च त्रिरात्रकम्' । इति ऋतुकाललक्षणमाह बृहस्पतिः अंगनाजन्मनक्षत्रात् पिंडास्तारागते विधौ । भौमेऽवामिन् समायोगे मासिमासि तु धारणम् ।