पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासभखित-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने गृह्यः- 'प्राप्ते तु संगवे स्रायात् सगोमयमृदंभसा । पुण्यतीर्थेषु नद्यादौ गालशुद्धिं विधाय च' । इति रोगिण्या विशेषमाह उशनाः । ‘ज्वराभिभूता या नारी रजसाऽथ परिप्लुता । चतुर्थेऽहनि संप्राप्ते स्पृशेदन्या तु तां स्त्रियम् । सा सचेला विगाह्यापः सात्वा खात्वा पुनः स्पृशेत् । दश द्वादशकृत्वो वा आचामेच पुनः पुनः । अन्ते च वाससां त्यागः ततशुद्धा भवेतु सा । दद्याच्छक्तधा ततो दानं पुण्याहेन विशुद्धयति' ॥ इति काष्वजनिः– 'स्पृष्टा तामपरा स्रायाद्दशकृत्वः क्रमेण तु । वासोभिर्दशभिचैव परिधाय यथाक्रमम् ।। ब्राह्मणान् भोजयित्वा तु पुण्याहेन विशुद्धयति । मलवद्वासो यतु अपायत्यं भवेद्यदि । अभिषेकेन शुद्धिस्यात् नाश्नीयाद्वा दिनत्रयम् ? ॥ अप्रायत्क्मशुचित्क्म् । रोगेण यद्रजः स्त्रीणामप्रायत्यं प्रवर्तते । अशुद्धा नैव तास्तेन यस्माद्वैकारिकन्तु त् ॥ स्राने नैमित्तिके माझे किं करोति रजस्वला । उद्धतेन जलेनैव स्रात्वा चैव समापयेत् । न वस्रपीडनं कुर्यात् नान्यद्वासश्च धारयेत्' । इति वृद्धवसिष्ठः– ‘स्पृष्ट रजस्वलेऽन्योन्यं सगोत्रत्वैकभर्तृके । कामादकामतो वाथ सद्यस्ावा विशुद्धयतः' । इति काश्यपः- 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राक्षणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ इति इदं कामकृतश्क्यिम् । ४०