पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः ] स्मृत्यन्तरे - 'सवर्णया उदकया तु संस्पृष्टा चेदुदकाया । तस्मिन्नेवाहनि स्रात्वा शुद्धिमामोत्यसंशयम् ' | इति अत्रिः- 'उच्छिष्टोच्छिष्टसंस्पृष्टा कदाचित् ली रजस्वला । कृच्छेण शुद्धयते पूर्वा शूद्रा दानैरुपोषणैः । पतितान्यश्वपाकैश्ध संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत्' । इति बोधायनः– 'रजस्वला तु संस्पृष्टा चण्डालादैस्तु वायसैः । तावतिष्ठन्निराहारा यावत्कालेन शुद्धयति । ॥ इति अशक्तौ तु शुचिम्न्नात्वा क्षिपेत्तावत् यावचन्द्रस्य दर्शनम् । रजस्वलां तु भुञ्जानां अन्त्यजातिः स्पृशेद्यदि । गोमूत्रयावकाहारा पड्रात्रेणैव शुद्धयति । अशक्तौ काञ्चनं दद्याद्विप्रेभ्यश्चापि भोजनम् । आर्तवाभिप्लुता नारी शवं पृष्टा तु मोहिता। आस्रानकालान्नाश्नीयात् आसीना वायता बहिः ॥ आर्तवाभिप्लुता नारी चण्डालपतितान् स्पृशेत् । अतिकृच्छं चरेत्पूर्व कृच्छूमेकमथापि वा। मिथस्संभाषणे चैव उपवासं तयोर्भवेत् । आर्तवाभिप्लुतायास्तु शावं शौचं भवेद्यदि ॥ सूतकं वा भवेन्मध्ये स्रात्वा भोजनमाचरेत् । उदक्या पात्रे या भुङ्के प्राजापत्यं समाचरेत् । आर्तवाभिप्लुतां नारीं पृष्टा मोहाद्विजोत्तमः । उपवासेन शुद्धस्यात् प्रमादात् ज्ञानतशुचिः । ४११