पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१९ थी श्रीनिवालमचिन्त-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्ने स्पृष्टा तु भोजनं कुर्वन् उपासत्रयं चरेत्। तदन्न वर्जयित्वा तु कुशवारि पिबेतु वा ॥ शंयनं भुक्तपातं च स्पृष्टा मोहाद्विजोत्तमः । अज्ञात्वा भोजनं कुर्वन् उपवासेन शुद्धयति ॥ इति बृहत्संघर्तः- ‘रजस्क्लान्तु यो गच्छेत् गर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छू विशोधनम् । कौशिकः– ‘ब्राह्मणो ब्राह्मणीं गत्वा निजां भार्या रजस्वलम् । सकृच्चेदवमत्या च सात्वा तत्र सचेलकम् । महाव्याहृतिभिहॉमं कुर्याच्छातातपोऽब्रवीत्' । इति ीशूद्वेत्यादि । खीशूद्वाभ्यां संभाषणनिषेधहेतुः शुक्रियव्रते उक्तः । अपरमित्यादि । भर्तुर्यतिरिक्त साभिलाषमष्टत्यर्थ । यस्मादृतुरुंचाता यादृशं पुरुषं पश्येत् तादृशी प्रजा मवति । ९ इदमनुशासनिके मतंगोपाख्याने स्पष्टमुक्तम् । स्मृत्यन्तरे च – 'ऋतुस्राता सती नारी यं तु स्नेहेन पश्यति । तादृशं जनयेत्पुत्रं तस्मात्पश्येन्निजं पतिम्' । इति देवलः – ‘यदा गोवोष्ट्रदासीषु मनुप्याजाविकदिषु । नोत्पादकः प्रजाभागी तथैवान्यांगनासु च' । इति मरीचिः – 'पुंसन्नियो वा परस्परभावनातिरेको गर्भग्य वर्णविधिरिति विज्ञा यते । इति । ऋतुरात्रयो द्वादश भवन्ति षोडशेति च आचक्षते ॥ १० ॥ ऋतुरात्य इत्यादि । ऋतुस्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृतः । चतुर्भिरितैरैस्सर्धमहोमिस्सद्विगर्हितै ॥