पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्री श्रीनिवासनचिकृत-तात्पर्यचिन्तामणिसहित [तृतीय प्रश्ने स्त्वन्तरे- ' शुद्धा भर्तुश्तुर्थेऽहि ज्ञाता नारी रजस्वला । दैवे कर्माणि पित्र्ये च पञ्चमेऽहनि शुद्धयति ॥ इति भर्तृशुश्रूषादिविषयं चतुर्थदिनम् शालिव्रीहियवानामचं पयसा प्राश्नीयात् ॥ १३ ॥ क्मादाहारमूला धातवो भवन्ति ॥ १४ ॥ यस्मादित्यादि । अनेन असाराणां कोद्रवादीनां निवृत्तिः । बाहटः – ‘अन्नहीनं लक्षीणं घृतहीनन्तु शोणितम् । क्षीरहीनं शुकनाशं तिहीनं चाक्षिनाशनम्' । इति ‘इन्द्रियं वै गर्भः । अथो पयसा वै गर्भा वर्धन्ते इति । हरिवंशे – 'रसाद्वै शोणितं भवति शोणितान्मांसमुच्यते । मांसातु जायते मेदः मेदसोऽस्थीह जायते ॥ अस्थ्नो मजा समभवन्मजायाश्शुक्रसंभवः । शुकाद्भर्भस्समभवत् रसमूलेन कर्मणा । शुक्रो हि प्रक्ष्मो भागस्स सौम्यो राशिरुच्यते । गभप्णसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्र सोमात्मकं विद्यात् आर्तवं पाक्कात्मकम् । भावौ रसानुगवेतौ वीर्वञ्च शशिपाक्कै । कफक्गे भवेच्छुकं पित्तक्गे च शोणितम् । कफस्य हृदयं स्थानं नाभ्यां पितं प्रतिष्ठितम् । देहस्य भध्ये इदकं स्थानं नु मन : स्मृतम्' । इति देवलः– ‘यौगक्षे तु तीर्थानां विमादिक्रमशो ब्रजेत् ।