पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१५ ओजराश्यंशगे चन्द्रे लग्ने पुंग्रहवीक्षिते । उपविशेद्युमतिथिषु न नमः कामयेत् स्त्रियम्' । इति तीर्थमृतुगमनम् । लक्ष्मीवट-शृंगसहदेवीनामन्यतममभिष्य प्रक्षिपेदक्षिणे नासा पुटे पुत्रकामायाः वामे स्त्रीकामायाः ॥ १५ ॥ न निष्ठीवनं कुर्यात् ।। १६ ।। शेोकरोषौ वर्जयति ॥ १७ ॥ लक्ष्मीत्यादि । लक्ष्मी लता प्रसिद्धा (पंजि-हरिद्रा वा) । वटशृंगः वटमुकुलानि । सहदेवी प्रसिद्धा । एषामन्यतममेकं अभिष्य दृषदि पेषयित्वा । दृषत्पुत्रे दृषत्पुत्रेण पेषयि । त्वेत्यापस्तंबः । नववस्त्रं निधाय पुत्रकामा चेत् तस्याः दक्षिणे नासापुटे अंगुष्ठाग्रेण प्रक्षिपेत् । मा च तद्रसं निष्ठीवनेन न बहिः कुर्यात् । गृह्य *कन्याऽवहन्यादित्येके वज्ञेण प्रक्षिपेद्रसम् । वस्त्र दद्यात् सहोदर्ये वरस्य गुरवेऽथ वा' ॥ इति सामब्राह्मणे 'अथ यस्या जातानि प्रमीयेरन् न्यग्रोधशृंगाश्वत्थशृंगशतमूलं चोत्थाप्य तदहस्त्रिवृतं कारयेत् मणिम िप्रतिष्ठाप्यावृता हुत्वा मणिं निधाय अबोध्यमिरित्येतेनाभिजुहुयात् सहस्रशतावरं, तृतीये गर्भमासि निदध्यात् आज शेषं मेखलायाम् । मणिं धारयेत् पुमांसं ह जनयति' इत्यादि । 'गोजिरायुक्तं हस्तपृष्ठं शोधयित्वा प्रियगुकां सभां सहदेव्या मध्याप्यं भूमिपाशकं न चां() काचकपुष्पमिति च ता उत्थाप्य तु नदहः चूर्णानि कारयेत् । 'आनो विश्वासु हव्य'मित्यनेन त्रिस्संपातां चूर्णेषु कृत्वा 'अम आयाहि वीतय'इति रहस्येनाद्भिः संयूय तानि नाशुचिः पश्येद्वा उपस्पृशेद्वा नदनुलेपनं तेनानुलिप्तां यां यां स्पृशति सा सैनं कामयते' । इत्यादि च । मनुः– ‘यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ।