पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ श्रौ श्रीनिवातनलिकृत-तात्पर्यचिन्तामणिसहितम् ख्रियान्तु रोचमानायां सर्व तद्रोचते कुलम् । तस्यमरोचमानायां सर्वमेव न रोचते ) । इति [तृतीय प्रश्न तामेनां ‘यन्मेगर्भा'दिभिः प्रोक्षणैः प्रोक्ष्य ‘विष्णुर्योनि कम्पय'त्विति तामुपगच्छेत् ।। १८ ।। तामेनामित्यादि । मन्त्रान्तरेण पूर्व संगमनमुक्तम् । इदानीं मत्रान्तरेण तस्या एवोपगमनमिति ज्ञापयितुं ता मित्युक्तम् । यन्मेगर्भादीत्यादि शब्देन पावमान्यादिग्रहणम् । प्रोक्ष्येति – सर्वाङ्गदोषनिवृत्यर्थ प्रेक्षणम् । सर्वाण्युपगमनानि मन्त्रवत्वेन कर्तव्यानि । अत्र वोधायनः । 'सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः । यखादौ यवर्ताविति शालीकि ) िित । ‘निषेकयोग्यकाले तु शुचिर्भूत्वा समाहितः । विष्णुर्योनिं सुदर्शनञ्च जप्वाऽऽधानमथाचरेत्' । इति परिषिच्य वैश्वदेवं वैष्णवं मूलहोमांगहोमैौ हुत्वा 'विष्णुर्योनि कल्पय' त्वित्युपगमनमित्येके ॥ १९ ॥ निषेकस्य प्राधान्यज्ञापनार्थ निषेकस्यानन्तरं परिषिच्येत्यादिकमुक्तम् । तत्तदंगतदोषनिर्हरणार्थमंगहोमः । श्रुतिः । ‘दद्भयः स्वाहा हनूभ्य स्वाहे त्यंगहोमान् जुहोति' इति। अंगे अंगे पुरुषस्य पाप्मोपविष्टः। 'अंगादंगादेवैनं पाप्मनस्तेन मुञ्चति ' इति । विष्णुर्योनि 'मित्युपगमनमित्युक्तः अयमेव मुख्यः पक्षः । होमपूर्वकत्वात् । 'ऋतौ प्रथमे होमं कुर्यादृतावृतै संगमन' मित्युत्तरत्र वक्ष्यमाणत्वात् प्रथमर्तावेव होमः । प्रथमार्तवफलानि ज्योतिषे फाल्गुने सुभमा नारी माचे मास् िशुचिन्नता । कर्तिके मर्गशीर्षे च वृद्धिपुत्रसुपु सा । ज्येष्ठ च कुलसंपतिशाखे सखिनी प्रिया ।