पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमः खण्डः अथ गृहीतगर्भालिंगानि ॥ १ ॥ अवेत्यादि । गृहीतगर्भायाश्चिहानि । उच्यन्त इति शेषः । शरीराटोपः सक्थिसीदनं द्वेषो भर्तुः अरुचिराद्दारे लाला प्रकोपः खरतास्फरणं योनेरिनि ॥ २ ॥ शरीराटोप इत्यादि । शरीरस्य अस्वास्थ्यं। सक्थिसीदनम्-ऊरुल्यथनं। द्वेषो भर्तरि संगमकाले भर्तरि द्रः । भर्तुरिति विभक्तित्ययः छान्दसः । अरुचिराहारे भक्ष्यमाणेषु मधुरादिपदार्थेष्वप्रति: । लालाप्रकोपः निष्ठीवनस्य वा फेनस्य वा प्राचुर्य-यद्वा छर्दनादिः । खरतास्फरणं योनेः । कर्कशता स्फुरणं । यद्वा शरीरकाश्र्यात् वर्णेन क्चसा वा बर्बरत्वम् । गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुणान्नि नक्षत्रे आज्येन आधारं हुत्वा तां मंगलयुक्तामुपवेश्य परिषिच्य धातादि पञ्चवारुणं मूलहोमं स्विष्टाकारश्च हुत्वा 'वृषोऽसी'ति यवान् ददाति ॥ ३ ॥ गर्भस्येत्यादि । दैवानुवन्धं स्वकर्मकृतमनुबन्धम् । 'ऋणानुबन्धरुपेण पशुफ्नीसुतालयाः ? इनि वचनात् । मरीचिः “अथ देहोत्पतिप्रकारः । ओषधीभ्योऽन्नमुपजायते तदनं विविध भवति एकं मूलमेकं पुरीपमेकं पुरुषाणां शुकं स्त्रीणां शोणितम् । शुक्रशोणितयो क्षीरे सर्पिरिव सर्वव्यापिनी मायाशक्तिर्भवति । पुरुषवीजमूलसञ्चितं शुर्क ीकुक्मूलसञ्चितं शोणितम् । संयोगकाले दैवयोगेन वायुना गर्भालयं प्रविशति । तत्रैकरात्रोक्तिं कलिलं द्विरात्रोषितं बुद्बुदं त्रिरात्रोषितं मांसलं चतूरास्रोक्तिं