पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ममः खण् नवरात्रोवितं यौक्नं दशरात्रोषितं पयसमर्धमासे पिंडाकृतिर्मासे शरीराकृति र्मासद्वये शिरोवाहुपदेशास्त्रिमासे जठरं कठिप्रदेशं चतुर्थे मासे पाणिपादद्वयं पञ्चममासे रोमकूपाणि षष्ठ मासेऽथिसंघातः सप्तमे मासेि जीवप्रकाशः भष्टमे मासे देहो नवमे मासे प्रचलनं करोति । अत ऊर्ध जायते । स्रायुमज्जास्थीनि रेतोमयानि । त्युधिरमांसानि शोणितमयानि । एवं षट्कोशविकृतत्कअक्तमां समेदोऽस्थिमज्जाशुकमिनि क्रमेणैवान्तर्भूतानि (क्रमेणैकांशीभूतानि सप्तधातूनि)। सप्तधातुमयं गात्रं भवति । शुक्राधिके पुरुषः शोणिताधिके स्री द्वयोस्तुल्ये नपुंसकं भवति । पुंसस्त्रियो वा परम्परभावनातिरेको (परस्परभावेन तयोरेको) गर्भस्य वर्णविधिरिति विज्ञायते । अथातः पृथिव्यादिमहाभूतानां समवायं व्याख्यास्यामः । शरीरे यत्कठिन तत्पृथिवी यद्रसस्तदंभो यदुष्णं तत्तजः यत्सञ्चरति सोऽनिलः यत्सुपिरं स आकाशः । श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ त्वगौ चक्षुः अप्सु जिद्दा पृथिव्यां प्राणः एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाः विषयाः । वाकूपाणिपादपायूपस्थानि कर्मेन्द्रियाणि । तेषां क्रमेणैव वचनादानगमन विसर्गानन्दाश्ध विषया पृथिव्यादिमहाभूतेषु चतुषु कमेणोत्पन्नाः मनोबुद्धहंकार चित्तानीत्यन्तःकरणचतुष्टयम् । तेषां क्रमेण संकल्पविकल्पाध्यवसायानात्मात्म तत्त्वाबोधानुभूतानुस्मरणानि विषयाः । मन:स्थानं गलान्तरं बुद्धर्वदनमहंकारस्य हृदयं चित्तस्य नाभिरिति। अस्थिचर्मनाडीरोममांसाश्च पृथिव्यंशाः, मूत्रक्षष्मरक्त शुक्रस्वेदाश्चापां क्षुत्तृष्णानिद्रालयमोहमैथुनान्यग्नेः प्रचरणविलेखनोन्मीलन (स्थूलादि) उन्मेषनिमेषणादीनि वायः, कामक्रोधलोभमोहभयान्याकाशस्य । शब्दस्पर्शरूपरसगन्धाश्चैते पृथिवीगुणाः, तेषु गन्धविहीनाश्चत्वारोऽपां गन्ध रसहीनास्रयोऽग्नेः, शब्दस्पर्शों द्वै वायोः, शब्द एक आकाशस्य। सात्विकराज सतामसा इति त्रयो गुणाः । अहिंसासत्यास्तेयब्रह्मचर्यविकल्पनाकोधगुरुशुश्रूषा शैौचसन्तोषास्तिक्यार्जवा इति सात्तृिकलक्षणानि । अहं कर्ताऽहंभोक्तत्यभिमान गुणा राजसलक्षणानि । निद्रालयमोहमैथुनस्तेयकर्माणि ताम्सलक्षणानि । ऊध्वें