पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमक्षिकृत-तात्पर्थचिन्तामणिसहितम् [तृतीय प्रश्ने सात्विका मध्ये अधस्तात्तामसा इति । सम्यक्ज्ञानं सात्विकं, धर्मशानं राजसाः राजसं, तिमिरेत्थज्ञानं तामसमिति । जाग्रत्स्वमसुषुप्तितुर्यमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मेन्द्रियान्तः करणचतुष्टयचतुर्दशकरणैर्युक्त जाग्रत्, अन्तःकरणक्तुष्टयमात्रसंयुक्त स्वमं, िक्लैक करणयुक्ता सुषुप्तिः, केवलजीवयुक्तमेव तुर्यमिति । उन्मीलितजीवमध्यस्थपरमात्म जीवात्मनोर्मध्यस्थोऽतो जीवात्मा क्षेत्रज्ञ इति विज्ञायते । सोऽपि पञ्चमहाभूताः देहेन्द्रियपञ्चभूतगुणा अन्तःकरणचतुष्टया इत्येतैः पञ्चविंशात्मकः पुरुषः परमात्मनो देह इतेि विज्ञायते । इति । हरिवंशे – 'नाभिकंठान्तरं यतु तत्र देवो हुताशनः । मनः प्रजापतिज्ञेयस्तत्र देवो विभाव्यते ॥ पित्तममिः स्मृतेश्चेति श्रीषोममयं जगत् । एवं प्रवर्तिते .... ... गर्मे बुद्बुदसनिमे । वायुः प्रवेशनं चक्रे संगतः परमात्मना । स पञ्चधा शरीरस्ो भिद्यते वर्धयन् पुनः । प्राणोऽपानस्समानश्च उदानो व्यान उच्यते । प्राणोऽस्य परमात्मानं वर्धयन् परिवर्धते । अपानः पधिमं कायमुदानेोध्र्वशरीरगः । व्यानो व्यायच्छते येन समानस्सन्निवर्तते । ऋतावाप्तिस्ततस्तस्य जायेतेन्द्रियगोचरा । पृथिवी वायुराकाश आपो ज्योतिश्च पञ्चमम् ।। तस्येन्द्रियनिविष्टास्युः स्वं स्वं योगं भचक्रिरे । पार्थिवं देहमाहुस्तु प्राणात्मानञ्च मारुतम्। छिद्राण्याकाशयोनीनि जलं स्रवं प्रचक्षते । ज्योतिश्चक्षुषि तेनात्मा तेषां यत्र मनः स्मृतम् ॥