पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ४२९ ‘इन्द्रियं वै दधि ' ' अथो पयसा वै गर्भा वर्धन्ते ' इत्यादिश्रुतिभिः प्राण शरीरेन्द्रियवृद्धयर्थम् । यद्वा । 'उल्बं गभों जरायु तदेव तन्मिथुनं ' इत्युल्वादि बृद्धयर्थम् । व्याहृतेस्तु 'भूरिति वै प्राणः । भुवरित्यपानः । सुवरिति व्यानः' इति प्राणादिरूपत्वात् प्राणादीनामुत्पत्यर्थ व्याहृतयः । गर्भशुद्यार्थ दर्भणोन्मार्जनम् । कर्मसाद्गुण्थाथै पुण्याहब्राह्मणभोजनानि । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणैौ तृतीयप्रश्ने दशमः खण्डः