पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध जात्कर्म व्याख्यास्यामः ॥ १ ॥ अथेत्यादि । गर्भसंस्कारानन्तरम् । अरिष्टागारं यथोक्तं कृत्वा वृषभोषितं तिलसर्षपैः धूपयित्वा तां प्रवेशयेत् ।। २ ।। अरिष्टागारमित्यादि । अरिष्टागारम्-अरिष्ट निरसनार्थ निंबाद विपत्रैः क्रियते तदरिष्टागरम् । यथोक्तम् । ज्यौतिषादिषुक्तप्रकारेण कुर्यात् । भूहः - ‘गृहस्य दूरे नैर्वत्यां ध्वजाये सूतिकागृहम् । निवैर्वा विषवृक्षेर्वा कुर्याच्छुभदिनक्षके' । इति वास्तुशास्त्रे - 'एन्द्रे तु विश्रमस्थानमाभ्नेय्यां धान्यसंग्रहम् । याम्ये तु भोजनस्थानं नैऋत्यां सूतिकागृहम् । वारुण्यां विश्रमस्थानं वायव्ये देवतालयम् । कौवेरे संश्चितस्थानमैशान्यां पचनालयम्' ॥ इति अग्नेय्यां पक्नालयमिति शाखान्तरेषु दृश्यते । ध्वजे तु विप्रवेश्म स्यात् वृषभे पार्थिवं गृहम् । सिंहे वैश्यगृहं कुर्यात् गजे शूद्रगृहं भवेत् । गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत् । वृषमे धनलाभस्यात् मिथुने मरणं भवेत् ॥ कुलीरे पशुवृद्धिस्यात् सिंहे भृत्यविवर्धनम् । कन्या रोगं तुला सौख्यं वृश्चिके शुभवर्धनम् । कार्मुके च महाव्याधिः मकरे धान्यवर्धनम् । कुंमे च रङ्गकाभस्यात मीने सर्वभयापहम् । । इति १। अथ चतुर्दशः खण्ड । -