पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः। श्रीवैखानसगृह्यसूत्रम् तद् ज्ञाः स्त्रियः-प्रसक्कालकरणीयज्ञाः स्त्रियः । एनां-प्रसववेदना परवशामेनां परिगृह्य स्वकीयेयमिति वा योनिस्पर्शनादिकमंगीकृत्य तच्छरीरं स्वशरीरेषु निधाय किञ्चिच्छयानामिव वहेयुः । कुक्षौ शिथिले हृदयबन्धं मुक्ता सशूले जघने प्रजायन इत्यव धारयेत् ।। ५ ।। कुक्षावित्यादि । अवधारयेद् अधस्ताद्धस्तं प्रसार्य कुमारं धारयेत् । गर्भसंगे विशन्यां सुवर्चलां वा योनौ निष्पीडय निदध्यात् ॥ ६ गर्भसंग इत्यादि – गर्भसंगे अन्तर्गभे सक्त सति विशल्यां – अप्ति शिखां सुवर्चलां रुचकाख्यगन्धद्रव्यं वा हस्ताभ्यां मुसलेन वा निष्पीड्य योनौ निदध्यात् । धूपयेत्पिडीकेन अहिकृत्या वा योनिम् ॥ ७ ॥ धूपयेदित्यादि – पिंडीतकेन – मरुककेन, अहिकृत्या - विमुक्त सर्पकञ्चुकेन वा धूपयेत् । ४३९ हिरण्यपुष्प्या मूलं हस्तपादयोरादधाति ॥ ८ ॥ हिरण्येत्यादि – हिरण्यपुप्या मूल पीतपुप्फ्यूधिकामूलं (पूवुलमोल)। इस्तपादयोगदधाति । तत्पेषयित्वा हस्तयोः पादयोश्च ददाति । इदं विशाल च विशल्या च विद्धिचन्द्रः वारुणी। सुक्र्चल कोतवंगं पाथश्वरविभक्तं सुवर्चला इति वाहटे उक्तम् । यदा नासाग्रं दृश्येत्तदाऽस्य ग्रहस्थितिं ज्ञान्वा शुभाशुभं परीक्षेत् ॥ ९ ॥ यदेति-शीर्षोंदयस्य प्राधान्यतामवगमयति यदा नासाग्रमिति ।