पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः] श्रीवैखानसगृह्यसूत्रम् कनिष्ठिकांगुलीमूलात् रेखा गच्छति तर्जनीम् । अविच्छिन्ना विवर्णा चेत् शतमायुर्विनिर्दिशेत् । पञ्चदीर्घ चतुर्हस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरतं विगंभीरं त्रिविस्तीर्ण प्रचक्षते । बाहुनेत्रान्तरचैव हनुनासे तथैव च । कर्णी चैव विशेषेण पञ्चदीर्घ प्रशस्यते । ग्रीवा प्रजननं पृष्ठ हृस्व() जंधे च पूजिते । हृस्वानि यस्य चत्वारि पूजामाप्नोति नित्यशः ।। सूक्ष्मान्यंगुलेिपर्वाणि केशदन्तनखत्वचः । पञ्च सूक्ष्माणि चैतानि ते नरा दीर्घजीविनः ।। कक्षे कुक्षिश्च वक्षश्च घ्राणं स्कन्धं ललाटकम् । पाणिपादतले रक्त नेत्रान्ते च नखानि च । तालुजिह्वाधरोष्ठाश्च सप्त रक्ताः प्रकीर्तिताः ।। शिरोविशालो बहुधान्यभोगी उरोविशालो ह्यपराजितः स्यात् । कटीवेिशालो बहुपुत्रभोगः विशालपादो व्यसनी भवेतु । एकरोमा भवेद्राजा द्विरोमा धनधान्यवान् । त्रिरोमा चतूरोमा च अल्पायुर्नर्धनो भवेत् । 'अंगुष्ठमूलप्रभवाश्ध रेखाः पुत्रं दिशन्ति प्रमदाश्च तद्वत् । अच्छिन्नदीर्घ बृहदायुषस्तु स्वल्पायुषः छिन्नलवप्रमाणाः । । दीर्घलिंगं दरिदं स्यात् हस्वलिंगं महद्धनम् । कृशलिंगस्य राज्यं स्यादिति लिंगस्य लक्षणम् । 56 ४४१