पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [ तृतीय प्रश्न पुलस्यः 'सन्ध्यामिटिं चरुं होम यावर्जीवं समाचरेत् । । न त्यजेत्सूतक वापि त्यजन् गच्छत्यधो द्विजः ' । इति जातूकणिश्च – 'सूतके तु समुत्पन्न मातं कर्म कथं भवन् । पिंडयज्ञे चरुं होमसगोत्रेण कारयेत् । । इति संवर्तः - 'दशरात्रेण शुद्धयेतु वैश्वदेवविवर्जितः । होमस्तत्र तु कर्तव्यः शुप्कान्नन फलेन वा । पञ्चयज्ञविधानन्तु न कुर्यान्मृतिजन्मनोः' ।। इत्यादिबहुवचनबलात् तत्प्रतिपादितरीत्या तेषां कर्तव्यत्वावगमात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासास्ययज्वना विरचिते श्रीवैखानसमूत्रव्याख्यान नात्पर्यचिन्तामणौ तृतीयप्रश् चतुर्दशः खण्डः ।