पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः] स्मृत्यन्तरे– मनुः – कालोऽभिर्मनसः शुद्धिरुदकाद्युपलेपनम्। अविज्ञातव भूतानां षद्विधं शौचमुच्यते । नित्यं शुद्धः कारुहस्तः पण्यं यच प्रसारितम् ।। ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति श्रुतिः । वत्सः प्रस्रवणे मेभ्यः शकुनिः फलशातने । त्रियश्च रतिसंसर्गे वा मृगग्रहणे शुचिः । आकराशुचयस्सवें वर्जयित्वा सुधाकरम् ।। अदृप्यास्सततं धारा वातोद्धताश्च रेणवः । अमेध्येषु च ये वृक्षा उप्याः पुष्पफलोपगाः ॥ तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च । चैत्यवृक्षे चितिं यूपं चण्डालं वेदविक्रयम् । एतानि ब्राह्मणः स्पृष्टा मचेलो जलमाविशेत् । आत्मशय्यासन वत्र जायापत्य कमडलुः ।। आत्मनश्शुचिरेतानि परेषामशुचिर्भवेत् आसनं शयनं धान्यं नावं पथि तृणानि च । चण्डालपतिस्पृष्टं मारुतेन विशुद्धयति । दिवादित्यैस्तु संस्पृष्ट धान्यं मूलं फलादि वा । प्रक्षालनेन शुद्धयेतु पत्यिागान्महीमयम् । खलक्षेत्रेषु यद्धान्यं कूपवापीषु यज्जलम् ॥ अभोज्यादपि तद्भोज्यं यच गोषु गतं पयः' ।। ‘त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्विनिर्णितं यच याचा प्रशस्यते । ४५