पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः स्वण्ड:]] श्रावखानसगृह्यसूत्रम् ४५९ खननापूर्व भामिनीं कर्तारं वान्यं तलैशान्यां स्थितं 'वदस्व' इत्युक्ता तदुक्तना क्षरेणोपलक्षयेत् । तत्र अकचट्नपयशवगैः रक्तकृष्णचेतनीलचित्रश्यामासित कपिलवर्णाः लोहांगारभसितेष्टकाद्रुमसंचयोपलरलसुवर्णानि तत्रेति ज्ञात्वा स्पृष्टांगैरपि लक्षयेत् । शिरः कंडूयने पुरुषार्धप्रमाणेऽथिशल्यं मुखे हस्तद्वये दारुशल्यं ग्रीवायां हस्तत्रये कालश्रृंखल ऊर्वो: हस्तद्वये साधे पश्चाद्यवयवं हस्तयो जानुमात्रात् खटापादं बाहोर्हस्तत्रये शलाकां दक्षिणहस्ते विततिमात्रे हस्त्य क्यवं कर्णिकार्धादधः पादे अष्टांगुले चर्मजं अंगुष्ठ खेटकावयवं सक्थ्नि लोहपात्रं ( गैरिकं लौहपात्रं ) कनिष्ठिकायामष्टांगुले कांस्यमन्येषु हिंगुलेिकमिति । यदंगं स्पृष्ट तस्यांगे वास्तुपरुषस्य सशल्यम् (?) । विधूनन (सूचन) वीक्षणाद्यसकृद्यत्र तत्रास्थिशल्यमिति ज्ञात्वा शल्यदर्शनात् तत्सर्वं स्वानयेत् । खननकाले कृमिकीटपतंगसंकुले सर्पमूषिकवृश्चिकादिदर्शने खनकांगपतने भ्रमणे खनभेदे त्सरुभंगे चाद्भुतदर्शने भयार्तकमरणादयो भवन्ति । इति । खिले च वास्तुहोमं समुद्दिश्य वास्तुपुरुषस्वरूपादिकमुच्यते । 'कल्पयेद्वास्तुपुरुषं दशतालेन मानतः । आलये गोपुरे चैव मण्डपे चांकणेऽपि वा । यावत्तोरणमुद्दिष्ट तावत्तम्याङ्गमुच्यते । इत्यारभ्य 'वास्तुपुरुषश्च तन्मानं कल्पयित्वा विचक्षणः । कुंडं श्रमणकं तत्र पूर्वोक्तेन विधानतः । कुक्षिप्रदेशे कुर्वीत धनधान्यविवृद्धये । बाहुप्रदेशे कुर्वीत पुत्रपौत्राभिवृद्धये । नाभेरधः प्रदेशे तु वास्तुकुण्डं न कारयेत् ' ॥ इति अत्र 'दशतालेन मानत:'इति वचनात् देवयजनार्थं गृहीतभूमेिं दशधा विभज्य अध:कायार्थमर्ध विसृज्य ऊध्र्वेऽमिकुंडानि कल्पयेत् । 'द्वै वास्तुपुरुषौ ज्ञेयौ चलाचलविभागतः । प्राकृछिरोऽधोमुखो मुख्यो भूमिस्थस्स तु सर्वदा ।