पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० श्री श्रीनिवासमखिकृत-तात्पर्यबिन्तामणिसहितम [तृतीय प्रश्न स स्थाणु रुद्रदेहात्मा शवे इत्यभिधीयते । तस्योपरि च यश्शेते चलस्सर्वप्रभुर्वरः । मध्याहे प्राकृशिराश्शेते स साये दक्षिणामुखः । निश्यधे पश्चिमशिराः प्रातरुत्तरदिक्छिराः । सदाऽम्बरमुखो भूत्वा संक्रमेत्संक्रमात्मक । एवं संकल्प्य मनसा वास्तुहोमं समाचरेत् । इत्यादिवचनैः प्रात:काले वास्तुहोमकुंडं कर्तव्यमिति ज्ञायते । आव सभ्यञ्च मध्याहे सभ्याहवनीयौ पौंडरीकञ्च । 'पितृणामग्रि ' िमति श्रुतेः 'अफ्राद्धे पितृणा'मिति वचनाच अपराद्धेऽन्वाहार्यपचनः कार्यः । उदयात्पूर्वं गार्हपत्यम् । दिगन्तरे वास्तुहोमश्चेत्प्रायश्चित्तं विधीयते । यथा काश्यपीये । ' ऐन्द्रे वास्त्वमिसंस्थानं कुर्यात् । न्द्र वैष्णवं हुत्वा विमदशकं भोजयेत् । एवमेवान्यदिक्स्थाने तत्तद्दिग्देवदेवत्यं वैष्णवञ्च हुत्वा होममारभेत । गर्भालये विमाने वा निने कपाले वा विल छुरुल्या वाहाम यदि कुर्यात् आग्नेयं वैष्णव प्राजापत्य व्याहृत्यन्नं हुत्वा पुनम्सम्यगाचरेदि'नि । अतस्तत्र नत्तत्काले कर्तव्यम्, अन्यथा विरोधः । मुख्यत्वेन प्रधानामिपरन्या काश्यपेनोक्तम् । मर्वामिपरत्वेन भृग्वादिभिरुक्तम् । यस्माद्वाम्तु मवनेन शुद्विर्वस्तूनाम् ।। ३ ।। यस्मात् वास्तुपुरुषपूजापर्यमिपुण्याहादिशुद्विबाहुल्यात् वास्तुसवनेन होमेन सर्ववस्तूनां शुद्धिः । अत्र वस्तुशब्दो देवविम्बादिसर्ववस्तुपः । तस्माद्वास्तुयज्ञः कतव्यः । अथ वाम्नुहोमार्थकुंडविधिः । अर्चनाधिकारे - 'नाभेरधस्तात्सर्वत्र अभिकुंडं न कारयेत् ' । इत्युक्ता 'एवं चलात्मके रूपे तत्कालञ्च रूपितम् । ऊध्र्वभागे तथा कुर्यात् मृद्भिर्वा सिकतामयम् ।।