पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमे द्वादशे वाऽह्नि भवत्युत्थानम् ।। १ ।। अथेत्यादि । अथ जातकर्मानन्तरम् । दशमे द्वादशे वाऽह्नि । दशम दिवसे द्वादशदिवसे बा- कालान्तरे वाऽपि कर्तव्यताज्ञापनार्थ वाशब्दः । अहि भवतीत्युक्तत्वात -- न रात्रौ । गृह्यः - 'द्वादशाहोत्थानपक्षे दशमैकादशेऽह्नि वा । स्रापन गृहशुद्धिः स्यात् उत्थानश्चात्र वा भवेन् ' । इति सूतकान्ते अरिष्टागारादृहिर्निष्क्रान्तस्य शिशोर्मगलानादिकमुत्थान मित्युच्यते । श्रीकृष्णमुद्दिश्य श्रीभागवते दशमस्कन्धे सप्तमेऽध्याये उक्तम् । यथा - कदाचिदौत्थानिककौतुकाऽवे जन्मक्षय्याग समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकै चकार सूनोरभिषेचनं सती' । इतिं अन्यत्र- 'औत्थानिके कर्मणि यास्समागताः । । इति च गृह्यः - ‘सूतिका संगवे चोध्र्व मुद्रपिष्टादिलेपनै । शीतोष्णाभिः स्रापयेत्तां बहुशश्चाल्पवाससम्’ (अन्यवाससः)। इति तथैव जातकाग्रि समारोप्य यावन्त्यस्य कर्माणि तानि सर्वाणि मथित्वा सिन्नेव कुर्यात् ।। २ ।। तथैवेत्यादि । पूर्ववदुपावरोहेति जातका िसमिधि! 'अयं ते योनि' िरित अरण्यां वा समारोप्य सम्यक् रक्षेत्। अस्य कुमारस्य यावन्त्युत्थानादीनि कर्माणि सर्वाणि उत्थानादिकर्मणि मथित्वा तस्मिन्नेवाम्रौ कुर्यात् । विसृज्य लौकिकामावित्येके ॥ ३ ॥ 59