पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनविंशः खण्डः। श्रीवैखानसगृह्यसूत्रम् प्रोष्ठपदासु प्रोष्ठपादायेति वा । भरण्यामपभरणायेति । कृतिकायां कृत्तिकायेति व्याख्यातः' इति । एवं नक्षत्रनामानि 'तस्माद्विनामा ब्राह्मणोऽर्घकः' इति श्रुतिः । स्वाध्यायपरम्य सामान्येनाहिनम्न्यादि नाम नक्षत्रनाम चास्नीत्याशक्त्रा पुण्याहादिकर्मसु तेषां व्यवहारयोग्यता नाम्नःनि ज्ञापयितुं नक्षत्रनाम रहस्य मित्युक्तम् । अभ्याधानात्परं आहिताम्न्यादेः स्वकर्मान्नं नाम प्रकाशं नाम भवेत् । यथा - अग्न्याधाने कृते आहिताप्तिः, सोमे कृते सोमयाजी वाजपये ते वाजपेययाजी, अतिरात्रे कृते अतिरात्रयाजी इत्यादि-यद्वा रहग्यमित्युक्त वात् अग्न्याधानात्पूर्वमुपांशाचरेत् इति । अक्षतोदकपुष्पान्नरपगन्धसभैः पाणिभ्यां दक्षिणेनाभ्यां कुमारस्य 'शांकरिरिव ' इति कन्यायाः ' नन्देवानन्ददायीनी ' इति वदन् पत्त आरभ्य क्रमेण देहांगमन्धौ शिगसि च निक्षिपेत् ।। ७ ।। अक्षनेत्यादि । अन्नरसशब्देन टूर्वा उच्यते । ऋत्राह्मणे । 'अन्नभ्य स इव रसम् । अथो यद्भर्वाः'इति । पाणिभ्यां गृहीत्वा कुमारस्य पादन आरभ्य क्रमेण 'शांकरिरिव सर्वत्राजयो भव' इति पादयो; । ' नरनारायणाविव पोबलोकृष्टो भव इति जान्वः । केशलोकेशाविव सर्वभूनाधिपतिर्मव ' इति कट्युभयपार्श्वयोः । बृहद्रह्मगुणा इव मूर्वार्थसंसिद्रो भव ' इति मृत्रिं च एवं देहांगमन्धौ शिरसि च क्षिपेत् । ४७१ पुण्याहम् ।। ८ ।। पुण्याहमिति । पुण्याहं कुर्यात् । ब्राह्मणानन्नेन तर्पयति । दुकूलं तन्तुना निर्मिनं हस्तसूत्रं कटिसूत्रं वा 'बृहत्साम' इति बद्ध्वा पुण्याहं कुर्यान इति केचित् । अथं कणवधः । ‘कर्णवेधे शुभं रौद्रं नाश्चिमूलकवायुभम् । तद्दिनक्षदिसंधेः प्राक् नष्टो मध्यंदिनेऽपि च । 1. एतद्विस्तरः प्रथमप्रश्न सप्तमखण्ड टिप्पण्यां (पुट १०५) द्रष्टव्यः ।