पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यारभ्य समेत्यन्योन्यसंयोगं परस्परसमाश्रयाः ॥ एकसङ्कतन्नश्याश्च संप्राप्यैक्यमशेषतः । महदाद्या विशेषान्ता खण्डमुत्पादयन्ति ते । तत्कमेण प्रबुद्धं तज्जलबुद्बुदक्समम् । भूतेभ्योऽण्डं महाबुद्धे प्रवृद्धमुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् । तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जगत्पतिः । विष्णुर्बह्मस्वरूपेण स्वयमेव व्यवस्थितः । तमिण्डेऽभवद्रह्मा सदेवासुरमानुषः'। इत्यादिभिः समष्टिसृष्टयदिकमुक्तम् । विशेषेण व्यष्टिसृष्टावपि ब्रह्मणोऽण्डादिषु त्पतिप्रकारः श्रूयते । यथा महोपनिषदि – 'अथातो महोपनिषदं व्याख्यास्यामः । एको ह वै नारायण आसी'दित्यारभ्य 'तस्य ध्यानान्तस्थस्य यज्ञस्तोममुच्यते । तस्मिन् चतुर्दशपुरुषा जायन्ते । एक कन्या । दशेन्द्रियाणि मन एकादशे तेजो द्वादशमहङ्कार त्रयोदशः प्रणाश्चतुर्दशः आत्मा पञ्चदश:बुद्धिभूतानि पञ्चतन्मात्राणि पञ्चमहाभूतानि च स एकः पञ्चविंशः पुरुषः ' ' अथ पुनरेव नारायणस्सोऽन्यत्कामो मनसा ध्यायत तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत्, त इमाः प्रतता आपः, तासु तेजः, ततेजो हिरण्मयमण्डं तत्र ब्रह्मा चतुर्मुखोऽजयत' इति । यजुषि - ‘स प्रजापतिरेकः पुष्करपणें समभक्त्' इति च । मनौ- एवं * अप एव सर्वादौ तसु वीर्यमवमृजत्' इत्यरभ्य तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह । इति