पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारते– ‘स्वपतस्तस्य देवस्य पद्म सूर्यसमप्रभम् । नाभ्यां विनिस्तमभूत्तत्रोत्पन्नः प्रजापतिः ॥ इति च स्मर्यते ननु नाभ्यामण्डे चोत्पत्तिरेकस्य कथमुपपद्यत इति चेत्-तत् कल्पन्तर इति वक्तव्यम् । तदुक्तं हयशिर उपाख्याने त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।। चाक्षुषं वै द्वितीयं मे असीजम्म पुरातनम् । त्वत्प्रसादाच मे जन्म तृतीयं वाचिकं महत् । त्वत्तो मे श्रावणञ्चापि चतुर्थ जन्म वै प्रभो । नासिक्यचैव मे जन्म त्वत्तः पञ्चममुच्यते । अण्डजश्चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् । इदन्तु सप्तमं जन्म पद्मजं मेऽमितप्रभ' । इति । अतस्समस्तजगज्जन्मथितिध्वंसमहानन्दैकहेतोः:भगवतः परब्रझणोनारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात् तन्नाभिनलेिनसञ्जातस्य ब्रह्मणोऽपि ‘अङ्गादङ्गादिति मन्त्रोक्तप्रकारेण भारतादिप्रतिपादितरीत्या च वैखानसादिशब्दवाच्यत्वमुपपद्यते । शान्तिपर्वणि – 'विशेषेणाखनत् यस्मात् भावनामुनिसृष्टये । नस्माद्विखनसो नाम स आसीदण्डजः प्रियः' । इति तत्रैव 'ऋष्ट स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः । खनित्वा चात्मनाऽऽत्मानं धर्मादिगुणसंयुतम् । ध्यानमाविश्य योगेन ह्यासीद्विखनसो मुनिः' । इनि श्रीभागवते - 'न खलु गोपिकानन्दनो भवान् अक्लिदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सस्व उदेयिवान् सात्वतां कुले' । इति गावाटे -श्रीरङ्गमाहात्म्ये ॥ ‘ब्रझऽपि दिव्यहंसेन सितमेषोपमेन च । पृष्ठतोऽनुययौ विष्णु क्स्त्रेणोच्छद्य चानम् ।