पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसमृह्यसूत्रतात्पर्यचिन्तामणौ तत्रार्चको महाभागो भगवान् क्खिनस्तदा । ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया' । इति श्रीवैखानसे-अनदसंहितायाम् । ब्रन्तर्हितानां खनन्द्वेदानान्तु विशेषतः । स विभुः प्रोच्यते सर्वेः विखना ब्रह्मवादिभिः । वैखानसश्च भगवान् मोच्यते स पितामहः' । इति व्यासनिघण्टौ– ‘क्खिनसञ्च विधातारं विरिञ्च तं चतुर्मुखम्' । इति नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः । शतानन्दश्शतधृतिस्सत्यको हंसवहनः । पद्मासनो विखनसश्धहर्मुख इतीरितः ? ॥ इति च प्रतिपादितम् । एवं कार्यकारणयोरभेदावगमात् प्रमाणबाहुल्याच भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकारः प्रतिपादितः । वैखानसानामुत्पित्तः विशेषेण श्रूयते । यजुर्षि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे- ‘आपो वा इदमासन् सलेिलमेव। स प्रजापतिरेकः पुष्करपणें समभक्त् । तस्यान्तर्मनसि कामस्समवर्तत । इदं सृजेयमिति'। इत्यारभ्य ‘स तपस्तष्ठ । शरीरमधूनुत । तस्य यन्मांसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् । येऽनखाः ते वैखानसाः । ये वालः ते वालखिल्याः ' इति । अस्यार्थः । समष्टिसृष्टेरनन्तरं व्यष्टिसृष्टी चतुर्मुखः देवमनुष्यादिविविधविशेषसृप्त्यर्थे मत्स्यादिश्पेणावतरिष्यमाणस्य भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्न श्रीवैखानसभगश्च्छाखमार्गेण समाराधनार्थञ्च स्वात्मतुल्यः प्रजास्सम्भवेयुरिति स्वान्तर्यामिणे पर पत्मानं ध्येोनेनानुकृतवान् । अयमेवार्थो ब्राह्माण्डेऽप्युच्यते ओमित्येकाक्षरं ब्रह्म व्याहरन् संस्मरन् हरिम् । पद्मासनस्खो भगवान् परमं तप आस्थितः ।