पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यारभ्य ब्रह्मणा ब्रहुशः कृतं तपधरणमुक्तम् । तपश्चरणकाले साक्षात्कृत भगक्स्क्रू पवैभवानुभवतिशयात् भगवद्दतसृष्टिशक्तिलाभात् तदुपजनितविशेषवेगाच पुलकितसर्वाङ्गः शरीरमधूनुत-कम्पमकरोत्। तस्य यन्मांसमासीत्'मांसं मानसमिति यावत् । ‘अर्थात्प्रकरणालिङ्गादौचित्यादर्थनिर्णयः' इत्यर्थादिभिः समीचीनार्थनिर्णयविधानात् ‘अक्षरसम्यान्निया 'दिति निरुक्तविधानाच तथा च तस्य मनः परमात्मनि संसन्मासीदिति यत्, तेन हेतुना तदनुग्रहस्समजनि । तेनानुगृहीतात् ब्रह्मणः अरुणाः केतवो वातरशनाः ऋषयः उदतिष्ठन् । अरुणाः परमात्मिन वसन्तः तदितरविक्ताः केतवः उच्छूितस्वभावः परमात्मप्रवणानामप्रेसराः वातरशना दिवाससः ऋपयः सर्वार्थदर्शिनः सनकादयः उदतिष्ठन् उत्कृष्य समभक्न् इति । इदं िवष्णुपुराणेपि-‘सनन्दनादयो ये च पूर्व सृष्टास्तु वेधसा । न ते लोकेष्वसजन्त निरपेक्षाः प्रजाविधौ ॥ सर्वे ते योगिनो जाता वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ इत्यादिना प्रतिपादितम्। महात्मनः । स प्रजापतिः एवंविधान् स्वकार्यासाधकान् तान् दृष्ट किञ्चिद्विषादम्पन्नः पुनरपि स्वकारणं भगवन्तं ध्यानपर्यायेण खननेनातोक्यत् । ये नखा' इत्यादि। भगवदनुग्रहविकसिते प्रजापतेर्मनसि वैखानसा नाम ऋषयस्सम्भूताः अत्र ये नख इत्यत्र आद्यन्तवर्णविपर्ययो भवति । कश्यपः पश्यको भवती' तिवत् खना इत्येतत् नखा इति विपर्यस्तमिति यावत् । सुसिङ्कपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङाञ्च । व्यत्ययमिच्छिति शास्रकृदेषां सोऽपि च सिद्धयति वाहुलकेन'॥ इति, ‘बहुलं छन्दसी' ति चात्र प्रमाणम् । अत्र 'अनखा । इति च्छित्वा केचिदेक्मूचुः' । अनख इत्यनेन सौम्येन्द्रियवत्वमुक्तमिति । 1. न विद्यन्ते खानि इन्द्रियाणि येषां ते नखाः । न नखाः अनखाः नव्द्वयेन सौम्येन्द्रियवत्वं फलितम् ।