पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मसंरक्षणार्थाय वेदशाक्षर्थसिद्धये । ते परव्यूहविभवानात्मानञ्च न मेनिरे । सैौलभ्याय तु भक्तानां सर्वलोकानुकम्पया । अर्चाक्ताररूपेण लोकेऽस्मिातुरानन! । अक्तारं करिष्यामि मा लक्ष्म्या समन्वितः । मदर्चायै स्मृज ब्रह्मन् सृष्टयादौ मुनिसत्तमम् । इत्याज्ञप्तस्तदा ब्रह्मा मुहूर्त तत्सिसृक्षया । चिन्तयामास तत्कर्मा क्षणमेकं महामुनिः । ऊचे न शकुयामेवं रुधुमिच्छन् तथाविधम् ॥ तस्य तद्वचन श्रुत्वा देवदेवो हरिस्स्वयम् । । चिन्तयामास देवेशः स्वनिर्मलतरात्मनि । वेदान्तत्वमीमासाखननं कृतवान् हरिः । नाम्ना विखनसं चके तत्पदान्वर्थयोगतः । तथा चिन्तयतस्तस्य मनसो द्वैौ बभूवतुः । सङ्कल्पधमौ, सन्नम्य प्राञ्जलिं पुरतःखितम् ।। ब्रह्माणमब्रवीद्विष्णुर्भूतसृष्टयन्तहेतवे (कमरकं) । सङ्कल्पधर्मी भवतस्तव सृष्टयन्तहेतवे । शुद्धसत्वसमुत्पन्नो निर्मितोऽयं तवाग्रतः । मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षम ।। मत्कार्यसाधकानेव त्वं वै स्रष्टुमथार्हसि । हृषीकेशस्य तद्वाक्यमभ्याधाय कृताञ्जलिः । चतुर्मुखश्चापि तया सनकादिमुनीश्वरान् ।