पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मोवाच – सनत्कुमर तथा सनकल्च सनातनम् । सनन्दनमिति ख्यातान् ब्रह्मविद्याविशारदान् ॥ ततस्ते च मुनिश्रेष्ठा शानातिशयवैभवत् । विरक्तचित्तास्सञ्जम्मुः कैवल्यं पदमुत्तमम् । स्वकार्यसाधकान् ब्रह्मा सृष्टवन् पुनरेव हि । प्राणाञ्च चक्षुषस्तद्वदभिमानाच कर्मणः । हृदयाच्छिरसः श्रोत्रादुदानाद्यानतस्तत । समानाच तथाऽपानादृषिश्रेष्ठानिमान् दश ॥ दक्षे मरीचिनं नीललोहितं भृगुमेव च । तथाऽङ्गिरसमत्रिश्च पुलस्त्यै पुलहं तथा ।। वसिष्ठश्च क्रतुश्चैव क्रमादसृजदब्जभूः । नव ब्रक्षण एवैते विना स्युनीललोहितम् । धर्मसङ्कल्पसहितास्सनकाद्या मुनीश्वराः । भृग्वादिमुनयचैव श्रुतिस्मृत्यादिवेदनात् । शिप्या विखनसः प्रोक्तास्सर्वशास्त्रार्थपारगाः । वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः ॥ सर्वेषामप्रजं श्रेष्ठमात्मपुत्रं मुनिं तथा । तं हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः । 'देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण । भगवंस्त्वत्प्रभावेन सृष्टोऽयं मुनिसत्तमः । जातश्चिन्तयतो मत्तस्त्वत्सृष्टौ मुनयस्त्विमे । एतैरपि कृतं सर्वं जगदेतच्चराचरम् ॥ मत्पुत्राणाञ्च सर्वेषामप्रजः पुरुषोत्तमः । वैष्णवेष्मजः श्रेष्ठो मुनीनां प्रथमो मुनिः ॥