पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेक्खननाञ्जातो विष्णेोक्खानसस्तथा । भृग्वादीनुपनीयाध सावित्रीमुपदेक्ष्यति । परब्रह्मोपदेष्टसाक्यमेव गुरुस्मृतः । एतदुक्तप्रकारेण सर्वे वै मम सूनवः ॥ चरिष्यिन्त यथान्यायं लौकिकाध्यात्मवैदिकान्। एभिः प्रवर्तता सृष्टिरविच्छिन्ना प्रवर्तते । भवान्तरत्वत्र मम सृष्टौ जनार्दन!। शुद्धसत्क्समुत्पन्नो निर्मितोऽयं त्वया विभो। ऋषिश्रेष्ठो महातेजाः त्वत्कर्मकरणक्षमः । तथाऽसौ खननाद्विष्णोः ध्यायादन्तश्च गर्भतः ।। यस्मात्तव समुत्पन्नो ज्ञेयोऽसौ गर्भवैष्णवः । इत्युक्तो भगवान् प्राह मुनिश्रेष्ठ तपोनिधिम् ।। श्रीभगवानुवाच-“देवब्रह्मऋषीणान्तु मदीयाराधनं प्रति । मया सञ्चोदितो यस्यत्वमेव मुनिसत्तम । तपोधनो भवानेव धन्योऽसेि भुवनत्रये । आत्मार्थ वा परार्थ वा नित्यनैमित्तिकादि यत् । तत्सर्वं मत्प्रसादेन मदीयाराधनं कुरु । अथाह स ऋस्तिसै प्रणम्य जगदात्मने ।। श्रीविलामा उवाच-भक्ताऽनुगृहीतोऽहं धन्योऽस्मि पुरुषोत्तम । नातः परतरं कार्य किमप्यन्यद्दिवौकसाम् । तथापि देवदेवेश स्क्कर्म मुनिभिस्सदा । उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः । सर्वेषाञ्च द्वजातीनां श्रुतिस्मृतिसमीरितम् । कर्तव्यं सततै देव स्वस्वकर्म प्रयङ्गतः ।