पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वत्कर्म क्रियते चेषु कर्मलोपो भवेन्मम ।।' इत्युक्तो भगवान मुनिन्छ तत्क्वेदिना । श्रीभगवानुवाच-*क्खिनस्त्वं मुनिश्रेष्ठ मदाराधनकर्मणि । व्याकुलीकृतचेतसः । तव कर्माण्यनूनानि सन्तु नित्यं मदाज्ञया ।। त्वद्धंशजानां सर्वेषां काले वै कृतकर्मणाम् । निषेकदिश्मशानान्ताः कायो मन्त्रसमन्विताः । अष्टादश च कर्मायेि शरीराणि प्रचक्षते । यज्ञाश्च विंशतिद्वै च धर्म वैष्णवमुत्तमम् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः । सर्वेस्स धर्मोऽनुष्ठेयो नात्र कार्या विचारणा । । त्वदाज्ञयैव भृग्वाद्या नारायणपारायणा क्दन्ति परमं धर्म वैष्णवं श्रुतिसम्मतम् । तद्धर्मनिरता ये तु ते वै भागक्ताः स्मृताः । मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते । तिस्रः कोट्यो मुनीनां तु कर्म कुर्वन्ति मे सदा । ज्ञात्वा यजूंषि साङ्गानि मन्मतास्सर्व एव ते ।। मन्मन्स्रकल्पजातानि मत्पुराणान्यनुक्रमात् । अधीत्य सर्वकर्माणि कुर्वते ते मदर्चनम्। कृताधिकपरिणस्ते तु कृतसम्बन्धिनो मम । मत्प्रसादभुजस्सैौम्या अतिप्रियतमा मम ।। षट्कर्मनिरतास्ते वै सात्विकाहारतत्पराः । वैखानसेन सूत्रेण निषेकादिक्रियान्क्तिाः ।