पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ इति जानीत खगमा मम यज्ञफलं हि तत् ' । अग्निः– ‘मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । ममैवैतान्यपत्यानि वरुणोह्मवशात्मकः । ।

  • अथाब्रवीलोकगुरुः ब्रह्मा लोकपितामहः ।

ममैवैतान्यपत्यानि मम शुकं हुतं हि तत् । । अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि । यस्य बीजं फलं तस्य शुकवेत्कारणं मनम् ।। ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै । कृताञ्जलेिपुटास्सर्वे शिरोभिः प्रणिपत्य वै ।। 'वयञ्च भगवन् ! सर्वे जगदेतचराचरम् । तवैव प्रसवं सर्वं तस्मादभिर्विभावसुः । वरुणश्धेश्वरो देवो लभतां काममीप्सितम् । निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः ।। जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् । ईश्वरोऽङ्गिरसञ्चामेरपत्यार्थे ह्मकल्पयत् । पितामहस्त्वपत्यं वै कविं जग्राह धर्मतः । तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । आमेयस्त्वङ्गिराः श्रीमान् कविब्रह्मो महायाशाः । भार्गवाङ्गिरसौ लोकं लोकसन्तानलक्षणौ । एते हि प्रसवास्सर्वे प्रजानां पतयस्रयः । सर्वे सन्तानमेतेषामिदमित्यवधारय । । इत्यादिना वैखानसानामुत्पत्त्यादिकं विशेषेण प्रतिपादितम् । पुराणान्तरे - 'यज्ञे देवस्य वितते महतो वरुणस्य ह । । ब्रह्मणोऽप्सरसं दृष्टा रेतश्धस्कन्द कर्हिचित् ।