पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्प्रतीक्ष्य स पर्णेन संजुहाव विभावसौ । ततोऽर्चिषोऽभूद्भगवान् भृगुरङ्गारतोऽङ्गिराः । अत्रैवान्वेषणादत्रिः खननाद्विखना मुनिः । खननं तत्त्वमीमांसेत्याहुः केचन सूरयः । अपरे निगमार्थानां खननादिति नश्रुतम् । ततस्तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः ।। इति ।

  • ये वालाः ते वालखिन्याः ' इत्यत्र बकारस्थाने क्वारः । ज्ञानाति

शयवैभवात् कामादिदोषराहित्येन च बाला उच्यन्ते । श्रूयते हि –‘ तस्मा ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पण्डित्यञ्च निर्विद्याथ मुनिः । इति । अत्र कंचिदेवमूचुः-ब्रह्मणः विधूताच्छरीरात् यन्मांसं विकीर्णमभक्त् ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्निति । तदसत् । एवमर्थस्वीकारें सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यमुक्तं स्यादिति । किश्च'तस्यान्तमनसि कामस्समवर्तत'इत्यादिना ‘कामतदग्रे समवर्त ताधि' इत्यन्तेन सोपपतिकं वर्तमानं सङ्कल्परूपं मननव्यापारमुक्ता 'मनसो रेतः प्रथमं यदाऽसी 'दित्यत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः स्मृष्टिकरणत्वं रेतश्शब्देनोक्ता 'सतो बन्धुमसति निरविन्द 'क्रियारभ्य 'य एवं वेद' इत्यन्तेन ब्रह्मणस्तत्कालविद्यमानमानसशक्तिमात्रेण व्यष्टिसृष्टरनिष्पन्नत्वमुक्ता मनसो व्यष्टि कारणलाभाय ‘स तपोऽतप्यत ? इति भगवदुपासनमकरैदित्युक्तम् । अयमेवार्थ 'ओमित्येकाक्षरं ब्रह्म ' त्यादिना ब्रह्माण्डेऽप्युक्तः । भगवन्मानसपुत्रा भृग्वादय इति भगवतैवोक्तम् 'महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । मद्भाव मानसा जाता येषां लोक इमाः प्रजाः ? ॥ इति भृग्वादय एव इति वैखानसान वंशकर्तारः भारतेऽयुक्तम् ।