पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ न कश्चिद्वेदकर्ताऽस्ति वेदक्क्ता चतुर्मुखः । तथैव धर्म स्मरति मनुः कल्पन्तरान्तरे' 11 इति । ननु – 'ब्रह्मचारी गृहस्थश्च भिक्षुवैखनसस्तथा ' इति तत्र तत्र तृतीयाश्रमनिष्ठानामेव वैखानसत्क्वननात् त एव वैखानसशब्दवाच्याः िकं न स्युरिति चेत् न । श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टानामेव वैखानसत्वावगमात् तेषामेव तत्र तत्रोत्कृष्टत्वप्रतिपदनाच । तथा िह-श्रुतावेव वैखनसानामुत्पत्तिः श्रूयते। ये नखः ते वैखानसाः' इति । छन्दोगब्राह्मणे । ‘वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् “पौरुहन्महं भवति । पुरहान्नादो वा एतेन वैखानसोऽञ्जसा लोकम स्वर्गे पश्यत् ' इति । अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते । 'स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वराट्' इत्यादिश्रुतिभ्यः 'अश्वत्थः कपिल गावस्तुलसी वेिखनास्तथा । चत्वारो मत्प्रिया राजंस्तेषां वैखानसो वरः । । इत्युपह्मणात् । ब्रह्मसूत्रे इन्द्रमाणाधिकरणे तथा निर्णयाच । आनुशासनिके- 'तथाऽग्रेस्तस्य भस्मभ्यो ब्रह्मर्षिगणसमिस्ताः । वैखानसास्समुत्पन्नास्तपश्रुतगुणेप्सवः ? ॥ इति वैखानसनाम्नैवोत्पतिप्रतिपादनात् । तथा किष्किन्धाकाण्डे “शृङ्गं सौमनसं नाम जातरूपमयं धक्म् । तत्र पूर्व पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे रौद्रं चकार पुरुषोत्तमः । तदुत्तरे प्रतिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूविछं शिखरं तन्महोच्छ्रयम् । तत्र वैखानसा नाम बालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः । ।। इति ।