पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ तथा आनुशासनिके 'श्रुणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः । वैखानसविधानेन गङ्गातीरं समाश्रिताः । आदित्यास्सत्रमीहन्ति सरो वैखानसं प्रति ? ॥ इति अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात् वानप्रस्थाश्रमप्रविष्टानां तेन शरीरेण पुनरपि देवत्वयोग्यताऽसम्भवाच वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुमशक्यत्वात् । किञ्च श्रीभागवते एकादशस्कन्धे-- 'वन्यैश्चरुपुरोडाशैनिर्वपेत्कालचोदिताम् । न तु श्रौतेन विधिना मां यजेत वनाश्रमी' ॥ इति वानप्रस्थानां श्रौतविधिनिषेधप्रतिपादनात् । तथा वृद्धमनौ –“वेदान्तवेदिभिर्विप्रैतद्वैखानससूत्रिभिः। याजयेद्यज्ञपुरुषं विष्णु राजा जगद्वितः । । इति तथा आश्वमेधिके युधिष्ठिरः– ‘कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशश्च ते । वैखानसाः कथं ब्रूयुः कथं वा पञ्चरात्रिकाः ।। श्रीभगवान् - 'श्रुणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः। स्थण्डिले पद्माकं कृत्वा साष्टपत्रं सकर्णिकम् ।। अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः । वैदिकैरथवा मन्त्रैर्मम सूक्तन वा पुनः । स्थितं मां मन्त्रतस्तस्मिन्नर्चयेत् सुसमहितः । विष्णुश्च पुरुषं सत्यमच्युतश्च युधिष्ठिर ॥ अनिरुद्धञ्च मां प्राहुवैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ।