पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा ज्यौतिषे हयग्रीवसंहितायाम् श्रीशास्त्रेणैव कर्तव्यं ग्रममध्याळ्यार्चनम् । पञ्चरात्रविधानेन नाचरेदिति शासनम्' । इति तथा शैवे च सुप्रभेदे 'सहस्रभूसुरादूध्वें ग्रामे ब्रह्माणेऽपि च । वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः ॥ भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः । अनुदूतैर्मन्त्रगणैर्वेदवेदान्तसम्भवै । क्रमाध्ययनसम्पत्रैस्साङ्गोपाङ्गेश्ध संस्कृतैः । पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद्धरिम् । वैदिकं तदिति प्रेतं राजराष्ट्रविवर्धनम्' । इति तथा कारणे प्रामविन्यासविधौ। ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः । पञ्चमूर्तिक्रमेणैव विष्णु संस्थाप्य पूजयेत्' । इति तथा भीमसंहितायाम् समयभेदोपन्यासावसरे शैवमेवं समाख्यातं वैष्णवन्त्वधुनीच्यते । वैष्णवश्च त्रिधा प्रोक्त तथा समयभेदवत् । पाञ्चरात्र भागवत तथा वैखानसं मतम् । शुद्धं मिश्रे तथा सौम्यं यथासंख्यक्रमेण तु ॥ वैदिकाचारबाधं यत्तद्रौद्रमिति कीर्तितम् । वैदिकाचारसम्बन्धात्सौमं श्रेष्ठमुदाहृतम् । ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद्बुधः । अब्धिनद्यादितीरेषु शुद्धोक्तं स्थापयेत्तथा ।। विमावासेषु सर्वेषु सौम्योपेनैव कारयेत् ॥ इति 4-4A २५