पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी सर्वातिथिः प्रतिषिद्धक् भैक्षमयुयुञ्जीत । न फालकृष्टमधितिष्ठत् प्राम का न प्रविशेत्' इति । मनुः-' अतः परं प्रवक्ष्यामेि धर्म वैखानसाश्रयम्' । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपकैस्वयंशैर्णेश्खानसमते स्थितः । ॥ इति हारीतः - 'वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । त्रेतामीनां स्थाने श्रामणकं वाऽमिमाधाय वल्कलशाणचर्मकुशमुञ्जादिवल्कलं वा वसानो वैखानस प्रेोक्तन विधिना वानप्रस्थो भवति । अनुज्ञायिकोऽनुप्रस्थायिक' इति । यमः-'श्रामणकेन विधानेन सायंप्रातरुपस्पृशे 'दिति । शङ्खलिखितै-‘श्रामणकेनाप्तिमाधाय काले कुरुविन्दवेणुश्यामाकनी वारादिभिर्वर्तये । दिति । वसिष्ठोऽपि – 'श्रामणकेनाभिमाधायाहिताभिवृक्षमूलिक 'इति । 'श्रामणकं नाम वैखानसशास्त्रम् । तदुक्तन विधिनामिमाधाय ? इति । शुकानुशासने व्यासोऽपि – मूलैरेके फलैरेके पुष्पैरेके दृढक्ताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः । । इति स्मृत्यन्तरमपि - 'यस्मिन्नेव तु सम्प्रोक्तं सूत्रे विखनसा परम् । वनस्थानान्तु सर्वेषां विधिश्श्रामणकाभिधः । वानप्रस्खास्ततस्सवें ये द्विजास्वन्यसूत्रिण तत्सूत्रविध्यनुष्ठानात्स्मृता वैखानसास्तु ते' । इति च वर्णयन्ति । अतश्च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति ।

  • तं पतन्तमभिप्रेक्ष्य पेक्ष्य चर्षिगणानथ ।

आसीनान सुभिस्सार्ध सत्रेण जगतीपतेः ।