पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् वैखानसानामेतेषां वालखिल्यगणानपि । तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत ॥ तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः । । इति तत्रैवोमामहेश्वरसंवादे

  • वैखानसानां वै धर्म श्रोतुमिच्छामि धमतः' इत्यारभ्य

'तेषु वैखानसा नाम वानप्रस्थाशुभेक्षणे । तीत्रेण तपसा युक्ता दीप्तमन्तस्सुतेजसः ॥ इति हरिवंशे च अकूरागमनसमये

  • शकपोत्राव्यया? मोदे प्रदोषेऽभ्याशतस्करे ।

किञ्चिदभ्युदिते सोमे शातितेषु तमस्सु च । वन्यैर्वैखानसैर्मन्त्रैः हूयमाने हुताशने' । इति पाद्रे च–‘ब्राह्मणं वृद्धहारीतं वैखानसमते स्थित 'मिति च वर्णनात् वानप्रस्थस्य श्रौतविषये पृथक्तन मन्त्रप्रतिपादनाभावाच बोधायनादिभि रुक्तप्रकारेण वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकारादेवेत्यव गन्तव्यम् । एतावता विखनश्शब्दार्थो निर्णीतः । * आद्यहेतु निरूपणप्रकारः अथ वैखानससूत्रशास्रयो: अखिलजगत्कारणभूतेन विखनसा प्रणीतत्व मुपपाद्यते । विष्णुधर्मे – 'कथयामि यथापूर्वं मत्पित्रा कथितं मम । तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ॥

  • विखनोवैखानसादिशब्दानां (1) नारायणे (2) तन्नाभिनलिन संभूतेचतुरानने

(३) महषिप्रवरे, (4) तन्नामसु मन्त्रद्रष्ट्रषु, (5) भृग्वादिषु वैखानसवंशकर्तृषु भगव न्मानसपुत्रेषु, (6) वैखानससूत्रेण अष्टादशसंस्कारवत्सु भगवत्प्रियतमेष्वर्चकेषु (7) तत्सूत्रोक्तधर्मानुष्ठातृषु कल्पसूत्रान्तरसंस्कृतेषु हारीतादिषु, (8) तत्सूत्रोक्त विधिना तृतीयाश्रमधर्मानुष्ठातृषु सौभर्यादिषु, (9) विखनसा सृष्टे समस्ते जगति, च यथायथं मुख्यया दृत्या उपचारेण वा प्रवृत्तिर्भवतीति इयता गन्थेन प्रतिपादितं भवति।