पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मुनिरास्रन्तु पञ्चरात्रं विधीयते । रोत्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश्च पञ्चभिः । तस्मात्तत्पञ्चरात्रास्यां लब्ध्वा तिष्ठति भूतले । । इत्यन्तेन पञ्चरात्रस्योत्पत्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्योत्पत्यादिकं प्रतिपद्यते । 'अथ मत्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् । निर्मथ्य सोमकं वेदानदात्पङ्कजयोनये ।। तादृशं पुण्डरीकाक्ष स्तोत्रैस्सन्तोप्य पद्मभूः । उवाच वचनं प्रेम्णा दण्डवत्प्रणिपत्य च ।। तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवदर्चनम् । न प्रसीदति तेनासान्मनः कमललोचन ।। वैदिकेन त्वदर्चा मे यथापूर्वं वदाच्युत । । इत्युक्तो भगवान् देवः शास्त्रे श्रुतिपथाऽगतम् । सहस्रकोटिभिः लोकैस्सङ्कयातं बहुविस्तरम् । सूत्रमूलमनाद्यन्तं कल्पेकल्पे समाश्रितम् ॥ उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च । मूलं सर्वागमनाञ्च पुराणानां तथैव च । स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् । वेदाश्च विखनश्शास्र प्रमाणमिति चेरयन् । यथा 'वैखानसं पूर्वेऽहन् सामभक्ती' ति च । 'ये नखा । भुवि सञ्जातास्ते वै वैखानसा ? इति । श्रुत्युक्तं तदिदं शास्त्र वैखानसमहार्णवम्' । इत्युक्ता भगवानाद्यस्तत्रैवान्तरधीयत । ततः परं चतुर्वक्तो जटाकाषायदण्डभृत् । नैमिशारण्यमासाद्य द्विजसङ्कनिषेवितम् ।