पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणं

तपस्ता िचरं कालं ध्यायंस्तेजस्तु वैष्णवम् । पश्चादपश्यद्विष्णूक्तमागमे विस्तरात्तदा । सश्रौतञ्च सगृद्धश्च वेदमन्त्रैरभिष्टतम् । संक्षिप्य सारमादाय शाणेोलिखितरलवत् । धाता विस्वनसो नाम मरीच्यादिसुतान्मुनीन् । अबोधयदिदं शास्त्र सार्धकोटिप्रमाणतः ।। कल्पेकल्पे पुरा विष्णुरुद्भूतः पूर्ववत्सदा । तस्माद्वैदिकमाचारं यः कर्तु भुवि चाच्छति । तस्येदं शास्रमित्युक्त नेतरेषामितीरितम्' । इति पुरातन्त्रे सप्तचत्वारिंशोऽध्याये ऋबय ऊचुः – 'वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने । विहाय सर्वसूत्राणि यत्त्वया चानुवर्तितम् ।। तत्सूत्रिणाञ्च माहात्म्यं श्रोतुमिच्छामहे वयम् । समूर्तस्यास्य यज्ञस्य ये योग्याः इतेि कीर्तिताः ।। युष्माभिः परिपृष्टं यत् सम्यग्वक्ष्यामि सुव्रताः । श्रुण्वन्तु मुनयस्सर्वे सूत्रमाहात्म्यमुत्तमम् । सुप्तोत्थितश्चिरं ब्रह्मा स्रष्टुकामः पुराऽभक्त्। सस्मार वेदानखिलान् न सृष्टिस्सम्प्रवर्तते । चिरं सुप्तस्य वै धातुस्तमसाऽऽकान्तचेतसः । विस्मृता निखिल वेदा हृदये तस्य संस्थिताः ।। चिन्तातुरस्तदा ब्रह्मा नालंकतुं किमप्यभूत् । ततश्चिन्तान्तु तां त्यक्ता स्वस्थचित्तः प्रजापतिः । हृत्पद्ममध्ये पुरुषं परमेण समाधिना । अर्चयामास वै विष्णुमृग्यजुस्सामरूपिणम् ।।