पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुष्टाव च तदा ब्रह्मा हरिप्रवणमानसः । ननाम च तदा विष्णु शङ्खचक्रगदाधरम् ।। बुवतो भगवद्धयानात् विनष्टतमसो विधेः । सत्वोद्रिक्तस्य तस्याशु नैर्मल्यं हृदयेऽभवत् । तनस्तु भगवान् ब्रह्मा छन्दोमूलमवाप्तवान् । तस्य दक्षिणतो वक्तात् तुष्टाव जगतः पतिम् ।। स्मार विविधान् वेदान् साङ्गानुपनिषद्भणान् । पुराणन्यायमीमांसाधर्मशास्राणेि सर्वशः !! अन्तर्हितानां खननाद्वेदानान्तु विशेषतः । स विभुः प्रोच्यते मवैर्विखना ब्रह्मवादिभि । वैखानमश्च भगवान् प्रेोच्यते स पितामह. । ततस्समर्ज भगवान् विश्वयोनिः पितामहः । जगत्सर्वमशेषेण वेदंष्टटेन वत्र्मना । प्राणाञ्च चक्षुषस्तद्वदभिमानाच कर्मणः । हृदयाच्छिरसश्श्रोत्रादुदानाद्यानतस्तत । समानाच तथाऽपानादृष्टिश्रेष्ठानिमान् दश । दक्षे मरीचिनं नीललोहितं भृगुमेव च । तथाऽङ्गिरसमत्रिश्च पुलस्त्यं पुलहं तथा । वसिष्ठश्च क्रतुचैव क्रमादसृजदब्जभूः नव ब्रह्माण एवैते विना स्युनीललोहितम् । वेदानां व्यसनादर्वाक् प्रायूपं मिलितन्तु यत् । तान्तु वैखानसीं शाखामादावध्यापयन्मुनीन् ।। (नान्ना विखनसं प्राहुर्यञ्च वैखानसं तथा । भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः ।