पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमन्तु तत् । वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ॥ सर्वेस्स धर्मोऽनुष्टयो नात्र कार्या विचारणा । स्वसूत्रस्य परित्यागादन्यसूत्रस्य संश्रयात् । सद्यः पतति वै विप्रो न वेदस्य समाश्रये । एतद्वैखानसं सूत्रमन्यशास्रानपेक्षितम् । एतद्वैखानसं सूत्रं सर्ववेदार्थसहम् । वैष्णवं मर्चविप्राणां मामान्यमभिधीयते ॥ वेंखानमप्य सूत्रस्य चाग्नः श्रमणकस्य च । नारायणस्य देवस्य माहात्म्यं नावबुद्धयते । यथा वेदेषु सर्वेषु मामवेदः प्रशस्यते । तथा सूत्रेषु सर्वेषु सूत्रमेतत् प्रशस्यते ।। अवैिखानसं शास्त्रं विष्णुर्वेदाश्च शाश्वताः । गायत्री वैष्णवा विप्रास्मतेऽतिपत्रिका ।। यदधातषु वदषु साङ्गषु लभत फलम् । तत्फलं लभते सद्यः सूत्रमेतत्पठन् द्विजः । अमीषोमादयो देवा ये यज्ञांशहविर्भुजः । शारीराण्यन्यसूत्राणि तथा स्वर्गफलानि च । वैष्णवं सूत्रमेत्तु सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच तत्तु वै । मयाऽनुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः । गृहे पुरुषपूजाया विधानमृषिसत्तमाः । 1. शारीराणि - भगवच्छरीरभूतदेबतान्तराराधनमात्रप्रतिपादकानि । ३५.