पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
योगतारावली।


निरतराभ्यासनितांतभद्रा
 सा जृमते योगिनि योगनिद्रा ॥ २५ ॥
विश्रांतिमासाद्य तुरीयतल्पे
 विश्वाद्यवस्थात्रितयोपरिस्थे ॥
सविन्मयीं कामपि सर्वकालं
 निद्रा संख निर्विश निर्विकल्पाम् ॥ २६ ॥
प्रकाशमाने परमात्मभानौ
 नश्यत्यविद्यातिमिरे समस्ते ।।
अहो बुधा निर्मलदृष्टयोऽपि
 किंचिन्न पश्यन्ति जगत्समग्रम् ॥ २७ ॥
सिद्धिंंं तथाविधमनोविलया समाधौ
 श्रीशैलशृगकुहरेषु कदोपलप्स्ये ॥
गात्र यदा मम लता. परिवेष्टयन्ति
 कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८ ॥
विचरतु मतिरेषा निर्विकल्पे समाधौ
 कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।।
चतुरजडमते वा सज्जनाना मते वा
 मतिकृतगुणदोषा मा विभु न स्पृशन्ति ॥ २९ ॥

॥ इति योगतारावली संपूर्णा ॥