पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
स्वात्मप्रकाशिका ।


लिंगदेहाश्रिता ह्येते नैवालिंगस्य मे विभोः ॥३२॥
अनाधज्ञानमेवात्र कारणं देहमुच्यते ।
नाहं कारणदेहोऽपि स्वप्रकाशो निरंजनः ॥३३॥
3; ‘जडत्वाप्रियमोदत्वधर्माः कारणदेहगाः ।।
न सान्त मम नित्यस्य निर्विकारस्वरूपिणः ||३४।।
जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव ।
इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥३५॥
अधिष्ठानं चिदाभासो बुद्धिरेतत्त्रयं यदा !
अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥३६॥
अधिष्ठानं न जीवः स्यात्प्रत्येक निर्विकारतः ।
अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥३७॥
प्रत्येक जीवता नास्ति बुद्धरपि जडत्वतः ।
जीव आभासकूटस्थवुद्धित्रयमतो भवेत् ॥३८॥
मायामासो विशुद्धात्मा त्रयमेतन्महेश्वरः ।
मायाभासोऽप्य रस्तुत्वात्प्रत्येक नेश्वरो भवेत् ॥३९।।
पूर्णत्वानिर्विकारत्वाद्विशुद्धत्वान्महेश्वरः ।
जडत्वहतोर्मायायामीश्वरत्व नु दुर्घटम् ॥४०॥
तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानाल हि वस्तुतः ॥४१॥
घटाकाशमठाकाशौ महाकाशे प्रकल्पितौ ।
एवं मयि चिदाकाशे जीवेशौ परिकारपती ।।४२॥
मायातत्कार्यविलये नेश्वरत्व च जीवता ।
ततः शुद्धचिदेवाहं चिद्वयोमनिरुपाधितः ॥४३॥
 सत्यचिद्धनमनंतमद्वय
  सर्वदृश्यरहितं निरामयम् ।