पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


तीवा विरक्ति. प्राच्यागमुदीच्यांगं दमादयः ॥ १००
कामः क्रोश्च लोभश्च मदो मोहश्च मत्सरः ।
न जिताः षडिमे येन तस्य शान्तिन सिध्यति ॥ १०१ ॥
शब्दादिविषयेभ्यो यो विपवन्न निवर्तते ।
तीवमोक्षेन्छया भिक्षोस्तस्य शान्तिन सिध्यति ।। १०२ ।।
येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।
न वश्य हृदय यस्य तस्य शान्तिन सिध्यति ।। १०३ V ।
मन प्रसादसिद्ध्यर्थ साधन श्रूयता बुधैः ।
मनःप्रसादो यत्सत्त्वे,यदभावे न सिध्यति ॥ १०४ ।।
ब्रह्मचर्यमहिंसा च दया भूतेष्वकाता ।
विषयेष्वतिवैतृष्ण्य शौच दविवर्जनम् ॥ १०५ ॥
सत्य निर्ममता स्थैर्यमभिमानविसर्जनम्
ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थिति ॥ १०६ ॥
ज्ञानशास्त्रकपरता समता सुखदुःखयोः ।
मानानासक्तिरेकातशीलता च मुमुक्षुता ॥ १०७ ॥
यस्यैतद्विद्यते सर्व तस्य चित्त प्रसीदति ।
न त्वेतद्धर्मशून्यस्य प्रकारातरकोटिमि ॥ १०८ ॥
स्मरण दर्शन स्त्रीणा गुणकर्मानुकीर्तनम् ।
समीचीनत्वधीस्तासु प्रीतिः सभाषण मिथः ॥ १०९ ।।
सहवासश्च ससर्गोऽष्टधा मैथुन विदुः ।
एतद्विलक्षण ब्रह्मचर्य चित्तप्रसादकम् ॥ ११०
अहिंसा वाङ्मन कायै प्राणिमात्राप्रपीडनम् ।
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥
अनुकपा दया सैव प्रोक्ता वेदान्तवेदिभिः ।
करणत्रितयेष्वेकरूपतावाता मता ॥ ११२ ॥