ईशप्रसादाच गुरोः प्रसादान्छान्ति समायात्यचिरेण चित्तम् ॥१३६॥
आध्यात्मिकादि यदुःखं प्राप्त प्रारब्धवेगतः।
अचिंतया तत्सहन तितिक्षति निगद्यते ॥ १३७ ।।
रक्षा तितिक्षासहशी मुमुक्षोर्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्नान्सीस्तृणीकृत्य जयन्ति मायाम्।।१३८॥
क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहीना निपतन्ति विश्वतिर्हताः पर्णचण इव द्वमात् ॥१३९||
तितिक्षया तपो दान यज्ञस्तीथ व्रत श्रुतम् ।
भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ।।
ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
पराक्षेपादिसहन तितिक्षोरेव सिध्यति ।। १४१ ।।
साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
यत्र विना' पलायन्ते देविका अपि भौतिका ॥ १४२ ।।
तितिक्षोरेव विघ्नेभ्यरत्वनिवर्तितचेतसः ।
सिध्यन्ति सिद्धयः सर्वा अणिमाद्या' समृद्धयः ।। १४३ ।।
तस्मान्मुमुक्षोरधिका तितिक्षासपादनीयेप्सितकार्यसिद्धय
त्तीवा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षा महकारि कारणम ||१४४
तत्तकालसमागतामयततेः शान्त्ये प्रवृत्तो यदि
स्यात्तत्तत्परिहारकोषधरतस्तच्चिनने तत्परः ।
तद्भिक्षु श्रवणादिधर्मरहितो मन्त्रा मृतश्चत्ततः
किं सिद्ध फलमानुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५६
योगमभ्यस्यतो भिक्षोयोगान्चलितचेतसः ।
प्राप्य पुण्यकृताल्लोकानियादि प्राह केशव' ।। १४६ ॥
न तु कृत्वैव सन्यास तृष्णीमेव मृतस्य हि ।
पुण्यलोकगतिं व्रते भगवान्यासमात्रतः ॥ १४७ ।।