पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ सर्ववेदान्तसिद्धान्तसारसंग्रहः । शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥ विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणांतरविरोधो न विद्यते ॥ ७१६ ॥ अतः संगन्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समंजसः।। ७१७ ।। तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८ ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ।। ७२० ॥ सर्वेशत्वस्वतंत्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसकल्प ईश्वरः ॥ ७२१ ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥ कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥ विरुद्धधर्माक्रातत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ।। प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महास्मृतिवचनविरोधश्च ॥ ७२५ ॥ श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादगीकार्यं श्रुतेर्वचः ।। ७२६ ॥ वाक्यार्थत्वे विशिष्टस्य ससर्गस्य च वा पुनः ।