पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।


तंतुदाहे तु तत्कार्यपटदाहो यथा तथा ।। ८०० ॥
तस्य कार्यतया जीववृत्तिर्भवति बाधिता।
उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ ८०१ ।।
तद्वदेव चिदाभासचैतन्य वृत्तिसस्थितम् ।
स्वप्रकाशं पर ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥
प्रचंडातपमध्यस्थदीपवन्नष्टदाधितिः ।
तत्तेजसाभिभूत सल्लीनोपाधितया ततः ॥ ८०३ ॥
बिंबभूतपरब्रह्ममात्र भवति केवलम् ।
यथापनीते त्वादर्शे प्रतिबिंबमुख रवयम् ॥ ८०४ ॥
मुखमात्र भवेत्तद्वदेतोपाधिसक्षयात् ।
घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ।।
घटं विस्फुरयत्येष चिदाभासः स्वतेजसा ।
न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥
अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् |
न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥
श्रुत्योदितस्ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया ।
प्रज्ञामाद्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥
स्यादखडाकारवृत्तिर्विना तु मननादिना ।
श्रवणान्मननाद्ध्यानात्तात्पर्येण निरतरम् ॥ ८०९ ॥
बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते ।
मंदप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥
श्रवण मनन ध्यान सम्यग्वस्तूपलब्धये ।
सर्ववेदान्तवाक्यानां पड्भिलिंगैः सदद्वये ॥ ८११ ।।
परे ब्रह्मणि तात्पर्यनिश्चय श्रवण विदुः ।
श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥