पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५

पुटमेतत् सुपुष्टितम्
अपरोक्षानुभूतिः।

इति या सुदृढा बुद्धिर्वक्तव्या.सा मुमुक्षुता ॥ ९ ॥
उक्तसाधनयुक्तेन विचारः पुरुपेण 'हि।
कर्तव्यो ज्ञानसिद्धयर्थमात्मनः शुभमिन्छता ॥ १० ॥
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।।
यथा पदार्थभान हि प्रकाशेन विना क्वचित् ॥ ११ ॥
कोऽहं कथमिद जात को वा कर्ताऽस्य विद्यते ।
उपादान किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३ ॥
अज्ञानप्रभव सर्वं ज्ञानेन प्रविलीयते ।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४
एतयोर्यदुपादानमेक सूक्ष्म सदव्ययम् |
यथैव मृद्धटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।।
तदह नात्र सदेहो विचार: सोऽयमीदृशः ॥ १६ ॥ .
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
आत्मा नियामकश्चान्तर्ढेहो बाह्यो नियामकः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
आत्मा ज्ञानमयः पुण्यो देहो मासमयोऽशुचिः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ।। १९ ।।
आत्मा प्रकाशकः स्वन्छो देहस्तामस उच्यते ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । '
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥