पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
right
प्रबोधसुधाकरः।


शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२ ॥
चेतः पशुमशुभपथ प्रधावमानं निराकर्तुम् ।
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३ ॥
निद्रावसरे यत्सुखमेतत्कि विषयजं यस्मात् |
न हि चेद्रियप्रदेशावस्थान चेतसो निद्रा || ७४ ॥
अद्वारतुंगकुडये गृहेऽवरुद्धो यथा व्याघ्रः ॥
बहुनिर्गमप्रयत्नैः श्रातस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५ ॥
सर्वेद्रियावरोधादुद्योगशतैरनिर्गम वीक्ष्य ।
शांत तिष्ठति चेतो निरुद्यमत्व तदा याति ॥ ७६ ।।
प्राणस्पंदनिरोधात्सत्सगाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेग जहाति शनैः ॥ ७७ ॥

चैराग्यप्रकरणम् ।

परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
कथितौ हर्षविषादौ किंवा स्याता क्षणं स्थातुः || ७८ ॥
दैवास्थित गत वा य कचिद्विपयमीडयमत्प वा ।
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९ ।।
ममताभिमानशून्यो विषयेषु पराड्मुखः पुरुषः ।
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८ ॥
कुत्राप्यरण्यदेशे सुनीलतृणबालुकोपचिते।
शीतलतरुतलभूमौ सुखं शयानरय पुरुषस्य ॥ ८१ ॥
तरवः पत्रकलाढयाः सुगधशीतानिलाः परितः ।
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२ ॥
वैराग्यभायभाजः प्रसनमनसो निराशस्य ।
अप्रार्थितफलभोक्तः पुसो जन्मनि कृतार्थतेह रयात् ॥ ८३ ॥
द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा