स्यात् । वैदिकाश्च सर्वे धर्माः परिपाल्यमाना एव जगति प्रवर्तन्ते ।
अतः स्थितौ स्थित्यर्थं यदा भवान् विशुद्धं सत्त्वं सत्त्वगुणं
श्रयते तदैव तेन सत्त्वगुणेन लोके प्रसृतेन व्याप्ता आश्रमस्थाः
क्रमेण वेदाध्ययनं क्रियायोगः कर्मानुष्ठानं तपो वनवासादिः
समाधिरात्मस्थितिश्चेति चतुर्विधान् धर्मान् सम्यगनुतिष्ठन्ति ।
ततोऽपि तेन धर्मेण शुद्धान्तःकरणास्तवाईणं समीहन्ते ।
शुद्धरेव हि भगवत्सेवा कर्तुं शक्यत इति । ननु वेदेनैव
कार्यसिद्धी किं सत्त्वगुणेनेत्याश शङ्क्याह ॥
शरीरिणामित्यादि । यदि फलदाता कोऽपि न स्यात्
प्रथमप्रवृत्तं विसंवादिनं दृष्ट्वा कोऽपि न प्रवर्त्तेत ।
नन्वदृष्टादिद्वारा भूतसंस्कारद्वारा वा कार्यसिद्धौ किं
सत्त्वमूर्त्येत्याशङ्क्याह । शरीरिणामिति ॥ ते हि
शरीराभिमानिनो विद्यमानशरीराश्च । यदि प्रथमं
शरीरभिन्नतया आत्मानं जानीयुस्तदा
कर्तृसमानाधिकरणमदृष्टमुत्पद्येतैव । देहान्तरे वा
फले प्राप्ये भूतसंस्कारो भवेत् । उभयोश्चाभावात्
फलदाता भगवानेवापेक्ष्यते । तदाह ॥ श्रेयउपायनम् ॥
उप समीपे आनीय समर्पणम् ॥ यस्मादपुरिति दैवगत्या
फलसिद्धिज्ञानाभावाय । अस्तु वा फलसिद्धिः । तस्य
धर्मस्य भगवद्भजने करणत्वं सहायत्वं वा चेन्न स्यात्तदा
क्षयिष्ण्वेव फलमिति पूर्वदोषानिवृत्तिः । अतो वैदिके मार्गे
सर्वधर्मप्रवर्तको भगवानिति देवानां पक्षपोषकः । जन
इत्येकवचनं जात्यभिप्रायं, दुर्लभत्वज्ञापनाय ।। ३३॥
ननु ब्रह्मचारिणो गृहस्थस्यापि श्रेयोदानार्थमात्मविवेकते
हि शरीराभिमानिन इत्यादि ॥ वैदिकं कर्म यथोक्तमेव कृतः
मदृष्टजनकम् । ज्ञानमपि तत्राङ्गम् । य एवं वेदेति वाक्येभ्यः ।
तथा च तद्भावात्तथेति भावः । जडत्वादपि तथात्वं ज्ञेयम् ।।